________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educatio
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [८१९], भाष्यं [१५०...]
श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य णाणी पडिवज्जए चउरोत्ति ओघेन - सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिक श्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्ये येति, उपरितन सामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गुणपूर्वकत्वात् तदवाप्तेः स्यात् पुनः पूर्वप्रतिपन्नः सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्थ पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते। तीर्थकृद्, उक्तं च- " पडिवेनंमि चरिते चडणाणी जाव छउमत्थो” त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ ८१९ ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽह चउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवजे । ओरालिए चउकं सम्मसुय बिउब्धिए भयणा ||८२० ॥
व्याख्या- 'चत्वार्यपि' सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाक्कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, ( ग्रंथाग्रम् ८५०० ) प्राक्प्रतिपन्नतां स्वधिकृत्य विद्यन्त एव, विशेषतस्त्वदारिक काययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राकूप्रतिपन्नतामधिकृत्य स्यात्, प्रतिपते चारित्रे पतुज्ञांनी यावच्छास्थः
Dorril
For Funny
jacibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 232~