________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८१४], भाष्यं [१५०...]
आवश्यक
॥३३४॥
हारिभद्रीयवृत्ति। विभागा
प्रत सूत्रांक
40002
धस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः-पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः' सिद्धः, तत्र चतु-
मप्युभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च ताव- मिश्र एवेति । दृष्टी विचार्यमाणायां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव, तत्राद्यस्य सामायिकरहितः सामा- यिकं प्रतिपद्यते, इतरस्य तयुक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः ।। ८१४ ॥ गतं द्वारद्वयं, साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाहआहारओ उ जीवो पडिवजह सो चउण्हमण्णयरं । एमेव य पजत्तो सम्मत्तसुए सिया इयरो॥ ८१५॥ । व्याख्या-आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत् , पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः पडू. भिरण्याहारादिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरों' त्ति इतर:-अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्-भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वयस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ।। ८१५ ॥ गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वयब्याचिख्यासयेदमाहणिहाए भावओऽवि य जागरमाणो चउण्हमपणयरं । अंडयपोयजराज्य तिग तिग चउरो भवे कमसो ॥८१६॥
व्याख्या-इह सुप्तो द्विविधः-द्रव्यसुप्तो भावसुप्तश्च, एवं जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णा सामायिकानाम
%95
अनुक्रम
4%
॥३३४॥
JaintaiKI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~229~