________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६१], भाष्यं [१२३...]
आवश्यक- रदो-गुरुर्बयादिति गाधार्थः ॥ उक्तं नयद्वारम् , अधुना समवतारद्वारमुच्यते-कैतेषां नयानां समवतारः, क्व वाऽन
हारिभद्रीवतार इति संशयापोहायाह
यवृत्तिः ॥२८५||
विभागा१ मूढनइयं सुयं कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥ ७६२ ॥ | व्याख्या-मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिक, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' (पा०५-२-११५) विति मूढनयिक, श्रुतं 'कालिकं तु कालिकमिति
काले-प्रथमचरमपौरुषीद्वये पठ्यत इति कालिक, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आहकक पुनरमीषां समवतारः', 'अपुहुत्ते समोतारों' अपृथग्भावोऽपृथक्त्वं चरणधर्मसमाद्रव्यानुयोगानां प्रतिसूत्रमविभागेन
वर्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, 'नस्थि पुहुत्ते समोतारों' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं वाऽवताय॑न्त इति गाधार्थः॥ आह-कियन्तं कालमपृथक्त्वमासीत् ?, कुतो वा समारभ्य पृथक्त्वं जातमिति?, उच्यते,
जावंति अजवहरा अपुहुत्तं कालियाणुओगस्स । तेणारेण पुटुत्तं कालियसुअ दिविवाए य॥ ७६३ ॥ व्याख्या-यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात् , GI २८५४ कालिकग्रहणं प्राधान्यख्यापनार्थम् , अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति । तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आयेवैरा इति?, तत्र स्तबद्वारेण तेषामुत्पत्तिमभिधित्सुराह
T
र
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~131~