SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७५९], भाष्यं [१२३...] (४०) अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपि-४ दशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात् , तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात् , तयोश्च शतभेदत्वादिति गाथार्थः ॥ एएहिं दिविवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणभुवगमो अहिगारो तिहि उ ओसन्नं ॥ ७६० ।। | व्याख्या-'एभिः' नैगमादिभिर्नयैः सप्रभेदैदृष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलहनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात् , तद्व्यतिरेकेणापि च वस्तुसम्भवात् , 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु , श्रोत्रपेक्षं कार्या, तत्राप्यधिकारखिभिराद्यैः 'उत्सन्न' प्रायस इति गाथार्थः ॥ आह-'इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थमिति, उच्यतेणस्थि णएहि विगुणं सुतं अस्थो व जिणमए किंचि । आसज उ सोयारं गए णयविसारओ बूया ।। ७६१ ॥ | व्याख्या-नास्ति नयैविहीन सूत्रमर्थो वा जिनमते किश्चिदित्यतस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्धयभावमपेक्ष्य इति । आह च-आश्रित्य पुनः श्रोतार-विमलमति, तुशब्दः पुनःशब्दार्थे, किम् ?-नयान्नयविशा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~130
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy