SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७५७], भाष्यं [१२३...] (४०) % - सतेऽषि सेसए मुयइ । संववहारपरतया ववहारो लोयमिच्छंतो ॥२॥" इत्यादि, उक्तो व्यवहार इति गाथार्थः ।। पचुप्पण्णग्गाही उजुसुओ नयविही मुणेयब्यो । इच्छइ विसेसियतरं पचुप्पण्णं णओ सहो ॥७५७ ॥ । व्याख्या-साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तम्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीताना गतवपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं तु ज्ञान, है ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्नुतः, शेषज्ञानानभ्युपगमात्, अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमष्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावा, विनष्टानुत्पन्नत्वाद् अदृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खपुष्पवत् , तस्माद्वर्त्तमानं स्वं वस्तु, तञ्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्ग&ाभिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति। प्रतिपद्यते 'विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं-वर्तमानं नयः, कः?, 'शप आक्रोशे' शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापना द्रव्यकुम्भाःन सन्त्येवेति मन्यते, तत्कार्याकरणात् , खपुष्पवत् , न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषकावत् कुटवृक्षवदू, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः॥ १ सतोऽपि योषान् मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ॥ १ ॥ 4-2- - 2 4 T SC-SCREE JAMEaiahin InIDrary.org पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~128~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy