________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७३९], भाष्यं [१२३...]
(४०)
S
OON
कारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्त-शोभनं च, तत्राप्रशस्त संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविध-द्विभेदं त्रिविधं-त्रिभेदं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्ककारणभेदसमुच्चयार्थ इति गाथार्थः ॥ यदुक्तं-'संसारस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहअस्संजमो य एको अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥ ७४० ॥
व्याख्या-'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम् , अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञान-कम्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावद्ययोगानिवृत्तिरिति, तथा मिथ्यात्वमज्ञानं चाविरतिश्चैव त्रिविधं तु संसारकारणं, तत्र मिथ्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम् , एवं कपायादिसम्पर्कादन्येऽपि भेदाः प्रतिपादयितच्या इति गाथार्थः ॥ उक्तमप्रशस्तं भावकारणम् , अधुना प्रशस्तमुच्यतेहोइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारो पसत्थएणेत्थं ॥ ७४१ ॥ | व्याख्या-भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' |च संसारकारणम् असंयमादि विपरीतं द्रष्टव्यम् , एकविधं संयमः, द्विविधं ज्ञानसंयमी, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकार' प्रस्तावः 'प्रशस्तेन' भावकारणेन 'अत्र' सामायिकान्याख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्त
T
Alaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~118~