________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७३७], भाष्यं [१२३...]
--
-
विषयः 'चतुर्विधः' चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आहद्विविधो भवति द्रव्ये, निक्षेप इति वर्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगह्यते, तदेव द्रव्यकारणद्वैविध्यं दर्शयति-तद्व्य'मिति तस्यैव पटादेव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति । अथवाऽन्यथा द्विविधत्व-निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनाना| तेति, तां वक्ष्यति । तत्र पटस्य निमित्तं तन्तवस्त एव कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न
भवति पटस्तथा तद्गतातानादिचेष्टादिन्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वेमादिनिमित्त, ततो निमित्तस्येदं नैमित्तिकमिति गाथार्थः ।। समवाइ असमवाई छव्विह कत्ता य कैम्म करणं च । तत्तो य संपयाणापयाण तह संनिहाणे य॥ ७३८॥
व्याख्या-समेकीभावे अवोऽपृथक्त्वे अय गतौ, ततश्चैकीभावेनापृथग्गमनं समवायः-संश्लेषः स येषां विद्यते ते समवायिनः-तन्तवो यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं-तन्तुसंयोगाः, कारणद्रव्यान्तरधर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति । आह-अर्थाभेदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सञ्ज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा पडिधं| कारणम् , अनुस्वारलोपोऽत्र द्रष्टव्यः, करोतीति कर्तरि व्युत्पत्तेः, स्वेन व्यापारेण कार्ये यदुपयुज्यते तत्कारण, कथं पति
करण कम्मं चेति व्याख्या.
T
JABERatarMS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~116~