________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [६३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-बाह्यलाभा, अवधिः प्रक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाग्यो' विकल्पनीयः, कोऽसौ ? हारिभद्री
-उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति !, आह-द्रव्य इति द्रव्यविषयः, एवं क्षेत्र- यवृत्तिः ॥४४॥
कालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:-एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः विभागः१ कदाचिदुत्पादो भवति कदाचिद्ययः कदाचिदुभय, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः ॥१२॥ द्वितीयगाथाव्याख्या-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लम्धिरभ्यन्तरलब्धिः तस्या-13 मभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि -तच्च तदुभयं च तदुभयं, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति अभ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादध्ययौ युगपत्स्यातां अङ्गुल्याकुश्चनप्रसारणवदिति गाथार्थः ॥ ६३ ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज मणोदधे, भागो लोगपलियस्स' (४२) इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिवन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाता धिकारे प्रतिपादयन्नाह
संख्येयो मनोजयविषयेऽपधी भागो लोकपस्योपमयोः * अवधेः तस्मिन् । गुणन विभा. पादः प्रति समवनेव.
SCIRCTCH
~98~