SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [− / गाथा-], निर्युक्ति: [ ५८ ], भाष्यं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः द्वितीयगाथाव्याख्या - इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा - अवधिलब्धिकालः, अत्र अद्धायाः - कालतोऽवस्थानं | अवधेर्लब्धिमङ्गीकृत्य तत्र चन्यत्र क्षेत्रादौ 'षट्षष्टिसागरा' इति षट्षष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग 'तो' ऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः ॥ ५८ ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽह वही वा हाणी वा, चउब्विहा होइ वित्तकालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥ ५९ ॥ व्याख्या--तत्र चलो ह्यवधिः वर्धमानः श्रीयमाणो वा भवति सा च वृद्धिर्हानिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा - "असंखेज्जभागवुट्टी वा संखेज्जभागवुड्डी वा संखेज्जगुणबुद्दी वा असंखेज्जगुणवुही वा,” एवं हानिरपि न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिहानिर्वा, कथम् ? - अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिर्वा, एवं हानिरपि द्रव्यानन्त्यादिति भावार्थः । तथा [ षड़िधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धिर्वा हानिवेंति वर्त्तते, पर्यायानन्त्यात्, कथम् ? - अनन्त १ न केवलं काल इत्यपिशब्दार्थः, आदिना आधारादिग्रहः गुणपर्यायग्रहो बा. २ गुणत उत्पन्नेऽपि जघन्येन समयान्तरे प्रतिपातात् मरणेन. ३ अनन्तरसमय इयर्थः ४ असंख्येयभागवृद्धियां संख्येयभागवृद्धिर्वा संख्येयगुणवृद्धिर्वा असंख्येयगुणवृद्धिर्वा (प्रज्ञापनायां ) *सत्र. + अन्यत्र च तोपयोगत्वे. द्विविधा Eucation International For Paren ~95~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy