SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: नुवर्तते, तस्येवाकारो यस्यासी पलकाकारः, एवमाकारशब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः-आतोयविशेषा, तथा चौवनद्धा विस्तीर्णवलयाकारा झलरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरिच तनुः, मृदङ्गः आतोद्यविशेष एव । 'पु'फेति' 'सूचनात्सूत्र' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थः-तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपतिव्यन्तरज्योतिष्ककल्पोपपन्नकल्पातीतत्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानादू, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः' उक्तः अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, अयं च भवनव्यन्तराणां उर्व बहुर्भवति, अवशेषाणां तु सुराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ॥ ५५॥ उक्त संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्रचिकटविषयेदमाहअणुगामिओ ओही, नेरइयाणं तहेव देवाणं । अणुगामी' अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥५६॥ व्याख्या-अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः-नारकाश्रयाः तेषु भवा नारका इति, तेषां नारकाणां, तथैव' आनुगामुक| * आ०. +अ.1 अणुगामि. अनु. T 9-१% 1-96- ~93~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy