SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: 2016 लघु पश्यन्नपि न गुरुलधु उपलभते, घटादि वा अतिस्थूरैमपि, तथा मनोद्रव्य विदस्तेष्वेवे दर्शनं नान्येष्यतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति । अथर्वा एकप्रदेशावगाहिग्रहणात् परमापवादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात्, चशब्दात् गुरुलघूनां चौदारिकादीनामित्येवं सर्वपुद्गल विशेषविषयत्वमाविष्कृतं भवति', तथा चास्यैव नियमार्थ 'रूपगतं लभते सर्व' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्व रूपगतं, नान्यदू इति, अलं प्रसङ्गेनेति गाथार्थः॥४४॥ एवं परमावधेर्द्रव्यमझीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाहपरमोहि असंखिज्जा, लोगमित्ता समा असं खिज्जा । रूवगयं लहइ सवं, खित्तोवमिअं अगणिजीवा ॥४५॥ | व्याख्या-परमश्चासाववधिश्च परमावधिः, अवध्यवधिमतोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि । लोकमात्राणि, खण्डानीति गम्यते, लभत इति संवन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एवं लभते, तथा द्रव्यतो 'रूपगत' मूर्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्व' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु वक्ष्यमाणाँस्तत्पर्यायान् इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना भवधिः, २ भगुप्तवारम्भकापेक्षया. घटादीनां गुरुलघुत्वादपिः ४ मनःपयांवज्ञानिनः, ५ मनोहम्पेशानं. ७ घटादिषु, द्वितीयानचसमाधानाय. ९धुषवर्गणादीनामपितमदास्कम्धान्ताना. १० महणं. १ आदिना वैकिपाहारकौनसेनदः१२ विशेषा भेदाः प्रकारा: १३ परमावधेः. विषयस्य. १५ पूर्वेण सिद्धत्वात्, १६ पूर्वगाथावर्तितमेकपदेशावपाढादि. T wereluctaram.org ~85
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy