________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [४०], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
शावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलङ्घ्य कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनिर्वृत्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्र्यं त्रयमायोजनीयमिति । एवं सर्वत्र भावना कार्या, 'परं परं सूक्ष्मं' 'प्रदेशतोऽसंरूयेयगुणं' ( प्राक्केजसात् ) इति ( तत्त्वार्थे अ० २ सूत्रे ३८-३९ ) वचनात् कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ ३९ ॥ द्वितीयगाथा व्याख्या - तत्रानन्तरगाथायां कर्मद्रव्यवर्गणोः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते – क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इति ध्रुवा नित्याः सर्वकालावस्थायिन्य इति भावार्थ:, 'इतरा' इति प्रदेशवृद्धया ततोऽनन्ता एवाध्रुववर्गणा अनन्ता भवन्ति, 'अध्रुवा' इति अशाश्वत्यः कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, एतदुक्तं भवति - एकोत्तरवृद्धया व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, अशून्यान्तरवर्गणा अव्यवहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्धया खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्रः ध्रुवाश्च
द्वयोरभिधानं प्रसङ्गात् २ अष्टानां वर्गणानामन्ये तद्भावात् ३ सू सूनकृदिति सूत्ररक्षणात् ४ तस्वानुरिसंभवे सत्येव भिनवणारम्भः अन्यद्वा किञ्चिद्वर्णादिपरिणामवैचित्र्यं तदारम्भे कारणम्.
Eaton International
For Penal Use Only
~79~