SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [३५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः॥३४॥चतुर्थगाथा व्याख्यायते-संख्यायत इति संख्येयः,सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् संख्येये, 'काले' कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया,द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पस्योपमादिलक्षणेऽवधिविषये सति, तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येयाः कदाचिद् ऐकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यवाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥३५॥ एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृक्ष्या च |क्षेत्रवृद्धि प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यदुद्धौ यस्य वृद्धिर्भवति यस्य वान भवति अमुमर्थमभिधित्सुराहकाले चउण्ड बुड्ढी, कालो भइयचु खित्तबुडीए । वुडीइ दव्वपजव, भइयव्वा खित्तकाला ७ ॥३६॥ अनुयोगद्वारसूत्राभिप्रायेणैकादशे तय॑भिमायेण तु त्रयोदयो. २ यावत् शीर्थप्रहेलिकेति शेयं, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संन्यबदार्या च तावत्येव संख्या ३ अभ्यन्तरावभ्यपेक्षया " तियरकोकमध्यभागगताः ५ असंख्येययोजनविस्तृतः ६ स्वयम्भूरमयादेः . अतिविस्तृतत्वात्तस्य. | आत्मन्यसंबद्धयात्. ९न द्वीपसमुद्रापेक्षयेति. १०नियतेति शेषः, क्षेत्रस्य प्रदेशानुसारेण वृद्धी कालस्य न समयानुसारेण वृद्धिः,अगुलमाने नभःखण्डेऽसंख्ये. योसपिण्यवसर्पिणीभावात, अन तुन विरोध इति नियता वृद्धिः, अत एव परिस्यूरेति प्राविमचमेति च भगने संगतिः, यथावत्तथा क्षेत्रकालवृद्धियायभान वात् चतुणी समप्रमाणमाश्रित्येति वा. * तमर्थ०५-६ + भड्या. T ~73~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy