________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [१५], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
आवश्यक॥ २० ॥
वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठाकालयोरभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एत्र, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूभयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् ९ । इदानीं 'दर्शनद्वारं', तद्दर्शनं चतुर्विधं, चक्षुरचक्षुरवधिकेवल भेदभिन्नं, तत्र चक्षुर्दर्शनिनः अचक्षुर्दर्शनिनचे, किमुक्तं भवति ?--दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'साओ लद्धीओ सागारोवओगोव उत्तस्स उप्पंज्जइ' इति वचनात् पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिस्तु पूर्वप्रतिपन्ना एवै, न तु प्रतिपद्यमानकः, केवलदर्शनिनस्तूभयविकला इति १० । 'संयत इति द्वार', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति ११ । 'उपयोगद्वारं' स च द्विधा-साकारोऽनाकारश्च तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो
१ विशेषेति २ शानज्ञानिनोरभेदात् आभिनियोधिकज्ञानयन्त इति बोध्यम् ३ साकारानाकारयोः उपयोगयोगपद्याभावात् किन्वित्यादि. ४ एतदुपयोगवन्तः, न चारतात एव लब्धिचिन्ता पूर्ववत् ५ इष्टावधारणार्थत्वा देवकारस्य प्रतिपद्यमानानां निषेधार्थैषः नतु मिध्यात्वतां अवधिदर्शनव्यवच्छेदाय, यहा तद्वत्सु तामवश्यंभावात् ६ साकारोपयोगोपयुक्तानामेव मतिज्ञानस्योत्पत्तेः ७ 'नमिव छाउम स्थिर नाणे' इति सिद्धान्तमङ्गीकृत्य. नास्तीदम् ५-६. +१-२-३-५-६.
For Parts Only
~50~
| हारिभद्रीयवृत्तिः
विभागः १
।। २० ।।