SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-२८] “आवश्यक”- मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) भाष्यं [-] अध्ययनं [–], मूलं [- / गाथा-], निर्युक्ति: [ ५ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०] मूलसूत्र -[ ०९] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः इत्थमवहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिपुराह— पुणे सरूवं पुण पासई अपुढं तु । गंध रसं च फार्स च बद्धपुढं वियागरे ॥ ५ ॥ व्याख्या-- आह- ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किम थं पुनरयं प्रयास इति, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपाद्यत इव दोषः । तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत् शृणोति गृह्णाति उपलभत इति पर्यायाः, कम् ? - शब्दयतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातं इदमत्र हृदयम्-तस्य सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणाप्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपं तद्रूपं पुनः पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवन संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ?-अस्पृष्टमपि यो भ्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते घायत इति गन्धस्तं, रस्यत इति रसस्तं च स्पृश्यत इति स्पर्शस्तं च, चशब्दौ पूरणार्थी, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्ट नैवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो 'वद्धपुढे' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृष्टवद्धं । आह-यद्वद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य ७ चक्षुर्मनसोरसत्यपि व्यञ्जनावग्रहेऽथवप्रहसनाबादस्त्यैव पटुतरतेति प्राय इति २ स्पर्शाभावे बन्धाभावसचेऽपि सत्यार्थमेतत् प्राणादीन्द्रियेभ्यो निपुणताख्यानाय वा. नातीदम् १-२-३-४. Education Internation For Penal Use On ~ 33~ war
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy