________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [३६६], भाष्यं [३७...],
माहणाणं १ ए कासी अ२ पुच्छ ३ निब्वाणं ४।
कुछ ५ थूभ ६ जिणहरे ७ कविलो ८ भरहस्स दिक्खा य ९॥३६६ ॥ (मूलदारगाहा) CI गमनिका-दान च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात्। 'वेदे कासी अत्ति आर्यान् वेदान् कृतवांश्च भरत
एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः। कृता इति । 'पुच्छत्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-यादग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह | भविष्यन्तीत्यादि । 'णिबाण'ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरत|श्चकार, कपिलो मरीचिसकाशे निष्कान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः ॥ ३५६ ॥ अवयवार्थ उच्यतेआद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तु 'पुणरवि' गाथेत्यादिना आहपुणरवि अ समोसरणे पुच्छीअजिणं तु चकिणो भरहे। अप्पुट्ठो अ दसारे तित्थयरो को इहं भरहे ॥३६७॥ ___गमनिका-पुनरपिच समवसरणे पृष्टांश्च जिनं तु चक्रवर्तिनः भरतः, चक्रवर्तिन इत्युपलक्षणं तीर्धकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीन् पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिणे य चकिणो भरहे' पृष्टवान् जिनान् चक्रवर्तिनश्च भरतः, चशब्दस्य व्यवहितः संबन्धः, भगवानपि तान् कथितवान् , तथा अपृष्टश्च दशारान् , तथा तीर्थकरः क इह भरतेऽस्यां परिपदीति पृष्टवान् , भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः ॥२६७ ॥ तथा चाह नियुक्तिकार:
* चक्रवर्ती
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~325