________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१९४], भाष्यं [३...,
(४०)
देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान, अवतीर्य च भगवतः स्वयमेव वरकर्म चकार, पत्न्योरपि देव्यो वधूकर्मेति ॥ १९४ ॥ अमुमेवार्थमुपसंहरनाहभोगसमत्थं नाउँ वरकम्मं तस्स कासि देविंदो । दुहं वरमहिलाणं बहुकम्मं कासि देवीओ ॥१९५ ॥
गमनिका-भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति । गाथार्थः, भावार्थस्तूक एव ॥ १९५ ॥ इदानीमपत्यद्वारमभिधित्सुराहछप्पुब्बसयसहस्सा पुचि जायस्स जिणवरिंदस्स । तो भरहबंभिसुंदरिचाहुबली चेव जायाई ॥१९६ ॥
निगदसिद्धवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुमहापीठश्च |सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति ॥ १९६ ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकार:देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीइ सुनंदाए वाहुबली सुंदरी चेव ॥४॥ (मू०भा०)
सुगमत्वान्न विनियते । आह-किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, अउणापण्णं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमइकमणे निवेअणं उसभसामिस्स ॥१९७॥ गमनिका-एकोनपश्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राक् निरूपितानां हकारादिप्रभू
JABERatinintamational
RSaneiorary om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~263