SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१६१], भाष्यं [२...] आवश्यक ॥११॥ अन्ये तु व्याचक्षते-पल्योपमदशभाग एव प्रथमस्थायुः ततो द्वितीयस्य असंख्येयाः-पल्योपमासख्येयभागा इति वाक्य हारिभद्रीशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं यत्तिः व्याख्येति । अन्ये तु व्याचक्षते-पल्योपमदशभागः प्रथमस्य आयुष्क, ततः शेषाणां 'असंखेजा' इति समुदितानां पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्येयभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः ?, पश्चानामसंख्येयभागानां पल्योपमचत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पाल्योपमं विंशतिभागाः क्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाचत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्य किश्चिन्यून चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे दी जाती, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदध किञ्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्तं च-पलिओवमभागे सेसंमि उ4 कुलगरुप्पत्ती' (गाथा १५०), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्त, तस्मैिश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिट, उच्यते, इष्टमिदं, अयुक्तं चैतत्, मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषांशा | भवतीति, ततः किमिति चेत्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुषकत्वम् ।। १५१॥ यत आह- . * या भागाः, + तिम०. पमवि०. क्रियन्ते. आतौ. ति. मिष्ट. JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~234~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy