SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१४१], भाष्यं [-] प्रतिपादयति अनुगमद्वारावसरे तदशेष निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्घातः शाखसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः, उच्यते, उपक्रमो देशमात्रनियतः, तदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते ॥ १४१॥ तत्रोदेशद्वारावयवार्थप्रतिपादनायेदमाह नाम ठवणा दपिए स्वेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ भावंमि अहोई अहमओ ॥ १४२ ॥ व्याख्या-तत्र नामोद्देशः यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थाप४ नाभिधानं उद्देशन्यासो वा, 'द्रव्ये' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये या उद्देशो द्रव्योद्देशः, द्रव्यस्य-द्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिलः गिरी मयूर इति, एवं क्षेत्रविषयोद्देशोऽपि वक्तव्यः,एवं कालविषयोऽपीति, समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स| |च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अजसमासोद्देश:-अङ्गं अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देश:-अध्ययनविशेषः तस्य उद्देश उद्देशोदेशः, तद्विषयश्च उद्देश इति, स चोद्देशोदेशोऽभिधीयते-उद्देशवान् तदध्येता | तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चाय-भावः भावी भावज्ञो वेति गाथार्थः ॥१४२॥ अयमेव देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकार:एमेव य निद्देसो अट्ठविहो सोऽवि होइ णायब्यो । अविसेसिअमुद्देसो विसेसिओ होइ निदेसो॥१४३॥ T JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~221~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy