SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१४१], भाष्यं [-] 4 आवश्यक- मद्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । आह-यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभि- हारिभद्री |हितत्वात् , तथा च 'आत्मागम' इत्याद्युक्तं, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतुटायवृत्तिः ॥१०५॥ इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते-वर्धमानो गौतमादयश्चेति, यथाविभागः१ च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह-ययेवं लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात् , प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति,उच्यते,तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकस्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः। आहनयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते ।, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्त, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च | सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः प्रसूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु ४ सूत्रव्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेश्व, ततश्च किं सामायिकदमित्याशङ्कानुपपत्तिः,उच्यते,जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः,तदुच्छित्त्यर्थमुपन्यासाददोषः। आह-नामद्वारे क्षायोपशमिक सामायिकमुक्तं तत्तदावरणक्षयोपशमाल्लभ्यत इति गम्यत एव, अतः कथं ॥१०५॥ लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्वेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहितमपि पुनः * ऽभिधानतो. + वक्ष्यति. तथा च यथा च, चिन्यते, न तु सूत्रविनियोगिनः मेवेति. T laneiorary om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~220~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy