________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१२१], भाष्यं [-]
क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसाकपिट क्षपकः तीनशुभपरिणामत्वात् सावशेष अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च| यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च ब्युपरमति, ततः कदाचित् मिथ्यादर्शनोदयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्वीजसंभवात् , क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात् , तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग भवति, आह-मिथ्या-| दर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासी, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् !, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुगला एवं सम्पग्दर्शनं, तत्परिक्षये|
च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन । स 2 ४च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु
अनुपरत एव समस्तां श्रेणिं समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ १२१ ॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम्गइआणुपुष्वी दो दो जाइनामं च जाव चरिंदी । आयावं उज्जोयं थावरनामं च सुहमं च ।। १२२ ।। साहारणमपज्जतं निद्दानि च पयलपयलं च।थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ॥ १२३॥ व्याख्या गतिश्चानुपूर्वी च गत्यानुपूव्यों 'दो दो' इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंब
NCREDIC
T
Mansindianarmom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~177~