________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्तिः [११५], भाष्यं [-]
॥ ८० ॥
आवश्यक- न्तव्यः । अभिहितमानुषङ्गिकं, इदानीं प्रकृतमुच्यते - आह-पुरिमपश्चिमतीर्थकर साधूनामपि यदित्वरं सामायिकं तत्रापि ★ करोमि भदन्त ! सामायिकं यावज्जीव' इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञा४ लोप इति, अत्रोप्यते - अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्र विशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथमं' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापनं' छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति - पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं तच्च सातिचारमनतिचारं च तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा यथा पार्श्वनाथतीर्थात् वर्धमान स्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनर्प्रतोचारणमिति, उक्तं छेदोपस्थापनं, इदानीं परिहारविशुद्धिकं तत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं तच्च द्विभेदं निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमान कास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टका| विकाः तदव्यतिरेकाञ्चारित्रमपि निर्विष्टका विकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः एतेषां च निर्विशमानका नामयं परिहारः - परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । १ । परिहारिकाणां तु तपो जन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्ण वर्षाकाले भणितं धीरैः प्रत्येकम् 1
Jus Educat
For Final P
हारिभद्रीयवृत्तिः विभागः १
~ 170 ~
॥ ८० ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः