________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [११५], भाष्यं -
S
25-5
तदावेऽपि च समर्पितसाटकं कुविन्दं तनिष्पादनमन्थरं प्रति आह-त्वर कोलिक ! नग्निकाऽहमिति' १। तथा औद्दे|शिकेऽप्यस्थिता एव, कथम् ?-इह पुरिमपश्चिमतीर्थकरसाधु उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, तेषां तु यमुद्दिश्य
कृतं तस्यैवाकल्पनीयं न शेषाणामिति २ । तथा शय्यातरराजपिण्डद्वारम्,-पिण्डग्रहणमुभयन संवध्यते, तत्र शय्यातर-। |पिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि । राज |पिण्डे चास्थिताः, कथम् । स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते ४ा तथा कृतिकर्म
वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिगपश्चिमतीर्थकरसाधूनां प्रभूतकालपत्रजिता अपि संयत्या पूर्व वन्दनं | कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५ । ब्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरतिवज्योनि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरि|गृहीता योषित् उपभोकुं पार्यते । तथा ज्येष्ठेति-ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया |
ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं,81 | तेषां तु अनियमः, दोषाभावे सर्वकालमध्यप्रतिक्रमणमिति ८ तथा मासपर्युषणाकल्पद्वार,-तत्र मासकल्पेऽप्यस्थिताः कथम् ?-पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युपणाकस्पोऽपि वक्तव्यः, एतदुक्तं भवति--तस्मिन्नपि अस्थिता एव ९-१०-इति समुदायार्थः, विस्तरार्थस्तु कल्पादवग
EAXE
JABERand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~169~