________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [११५], भाष्यं -
आवश्यक
।
॥७९॥
प्रत
सूत्रांक
|वती' तिन्यायात् , तच सावद्ययोगविरतिरूपं, ततश्च सर्वमध्येतच्चारित्रं अविशेषतः सामायिक, छेदादिविशेषैस्तु विशे- हारिभद्री प्यमाणं अर्थतःशब्दान्तरतश्च नानात्वं भजते, तत्र प्रथम विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य
विभागः१ शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कधिक आभववतीतियावत्, तच्च मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र ग्रथान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा"आचेलकु१देसिय २ सेजायर ३ रायपिंड ४ किइकम्मे ५ वय ६ जिड ७ पडिकमणे ८ मासं ९ पजोसवणकप्पो १०॥१॥" अस्या गमनिका-चउसु ठिआ छसु अहिआ, केषु चतुर्ष इति, आह-सिज्जायरपिंडे या चाउज्जामे य |पुरिसजिहे य । किनकम्मस्स य करणे चत्तारि अवडिआ कप्पा ॥१॥नास्य चेलं विद्यते इत्यचेलकः तदाबः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलवे स्थिताः कुतः-तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवत्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीथेवत्तिसाधूनां तु|
T ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाज्जीर्णादिपरिभोगाच्च अचेलकत्वमिति । आह-जीर्णादिवस्त्रसद्भावे, कथमचेर लकत्वम् ।, उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना जीर्णवखपरिधाना अन्याभावे सति
अनुक्रम
--
--
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: आचेलक आदि दश कल्पा:
~168~