SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [११२], भाष्यं [-] प्रत सूत्रांक अशेषचारित्रच्छेदकारीति भावार्थः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशानां' अनन्तानुबन्धिमभृतीनां कषायाणां, उदयेनेति संवध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्यायोजनीय, प्रत्याख्यानावरणकषा-1 योदयतस्तावत् मूलच्छेद्य-सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुवन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेचं यथायोगमिति गाथार्थः ॥ ११२ ॥ यतश्चैवमतःबारसविहे कसाए खइए उबसामिए व जोगेहिं । लम्भह चरित्तलंभो तस्स विसेसा हमे पंच ॥ ११३ ॥ व्याख्या 'द्वादशविधे द्वादशप्रकारे अनन्तानुवन्ध्यादिभेदभिन्ने 'कषायें क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगैः-निर्वाणहुतभुक्तुल्यता नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा-अर्धविध्यातानलोद्घट्टनसमतां नीते 'योगैः' मनोवाकायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥११३ ॥ अनन्तरगाधासूचितपञ्चचारित्रभेदप्रदर्शनायाह सामाइयं च पदम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥११४ ॥ तत्तो य अहक्खायं खायं सम्बंमि जीवलोमि। चरिकण सुविहिआ वच्चंतयरामरं ठाणं ॥११५॥ "प्रथमगाथाव्याख्या-'सामायिक' इति समानां-ज्ञानदर्शनचारित्राणां आया-समायः, समाय एवं सामायिक, विनयादिपाठात् स्वार्थे ठक्, आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः, उच्यते, 'एकदेशविकृतमनन्यवद्र अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | चारित्रस्य सामायिक-आदि पञ्च-भेदा: एवं तेषाम् व्याख्या: ~167~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy