SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: -, भाष्यं - पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः । मङ्गालत्वं चाशेषशास्त्रस्य निर्जदरार्थत्वात् , प्रयोगश्च-विवक्षितं शास्त्र मङ्गलं, निर्जरार्थत्वात् , तपोवत् । कथं पुनरस्य निर्जरार्थतेति चेत् , ज्ञानरूपत्वात् , | ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् , उक्तं च-"ज नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ॥१॥"। स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात् , तस्मात्स्थितहमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । | आह-मङ्गलमिति कः शब्दार्थः?, उच्यते, अगिरगिलगिवगिमगि इतिदण्डेकधातुः, अस्य "इदितो नुम्धातोः" (पा० |४-१-५८) इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलं, मनाचते अधिगम्यते साध्यत इतियाँवत्, अथवा मङ्गेतिधर्माभिमानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः" (पा०३-२-३) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते "आतो लोप इटि च विति" (पा०६-४-६४ आतो लोप इटि च ) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मालमिति भवति, मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः।। .. अनुमानस्य. २ मङ्गलमयस्य अविनसमात्यादिकार्यत्रयस्य पृथक्पृधक्तया साधकरवात्. ३ सिद्धम्, १ सदृशधातूनामेका पाठात. ५ प्रात्यर्थत्वात् गल्य र्थानां. ६ निदर्शनमात्रत्वाद्धातूनाम्. ७ पर्यायस्य पर्यायकथने प्रयोग एतस्य. SHREILLEGirintantraTina मङ्गलस्य व्याख्या एवं द्रव्यादि चत्वारः भेदा: ~17~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy