________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [१०६], भाष्यं -
(४०)
यत एष बही कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्मप-18 है रिक्षये सिद्धत्ववत् , तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्ष प्रसाधयतीति स्थितम् ।।
इदानी सम्यक्त्वादिगुणमाप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भच्याना करणत्रयं भवति, करणमिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्व, निवर्त्तनशीलं निवर्ति न निवति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावदन्थिस्थानं तावदाद्यं भवति, तमतिकामतो द्वितीयं, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति ॥१०६॥ इदानी करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराह
पल्लय १ गिरिसरिउवला २ पिवीलिया ३ पुरिस ४ पह ५ जरग्गहिया ६ ।
कुदव ७ जल ८ वत्थाणि ९ य सामाइयलाभविट्ठन्ता ॥ १०७॥ व्याख्या-तत्र पल्लकदृष्टान्त:-पल्लको लाटदेशे धाग्यधाम भवति, तत्र यथा नाम कश्चिन्महति पत्ये धान्य प्रक्षिपति8 स्वल्पिं स्वल्पतरं, प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्पतरमुपचिन्वन् बहुतरमपचिन्वंश्च प्रन्थिमासादयति, पुनस्तमतिकामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमु
कर्मक्षपणनिवन्धनस्याथ्यवसायमानस्य सर्वदेव भावात् (इति वियो० १२०१ गाथावृत्तौ), २ सम्यत्तवाविरूप० * उच्छेदिता. + नेदं | याधारो. नेदं न मल्पमल्पतरं. अल्पतर०.
Sarwajaniorary om
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: सामायिकलाभे पल्लक-आदि ९ दृष्टन्तानि
~159~