________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [९६], भाष्यं [-]
व्याख्या-येन प्रकारेण यथा, 'छेको' दक्षः, लन्धा-प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि, महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्नुमिति वाक्यशेषः DIR९५॥ तथा श्रुतज्ञानमेव लब्धो निर्यामको येन-जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधाराधिष्ठि-10
तोऽपि, शेष निगदसिद्ध, किन्तु 'निपुणोऽपि पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थ [निपुणग्रहणं, तस्मात् तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यमिति गाथाद्वयार्थः ॥ ९६ ॥ तथाचेहीपदेशिकमेव गाथासूत्रमाह नियुक्तिकार:| संसारसागराओ उन्बुड्डो मा पुणो निबुडिज्जा । चरणगुणविष्पहीणो बुइ सुपहुंपि जाणतो ॥९७॥
पदार्थस्तु दृष्टान्ताभिधानद्वारेणोच्यते-यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिश्छिद्रपटलाच्छादितोदकान्धकारमहादान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः परिश्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाधकरस्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचित्तः तेषामपि तपस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्प किमपि दर्शयामि इत्यवधार्य तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थं पर्यटन अपयश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसमाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविधशारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~149~