SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [९०], भाष्यं [-] हारिभद्री यवृत्तिः विभागः१ आवश्यकता प्रवचनं सङ्घस्तदर्थमिति गाथार्थः॥९० ॥ प्रयोजनान्तरपतिपिपादयिषयेदमाह॥६८॥ घिनुं च सुहं सुहगणणधारणा दाउं पुच्छिउँ चेव । एएहिं कारणेहिं जीयंति कयं गणहरोहिं ॥९॥ व्याख्या-'ग्रहीतुं च' आदातुं च प्रथितं सत्सूत्रीकृतं सुखं भवति अहंदूचनवृन्द, कुसुमसंघातवत्, 'च' समुच्चये, एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः प्रथिते सति, तत्र गणन-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुखं' इत्यनुवर्तते, 'च' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्का, ग्रहीतुं सुखमेव भवतीत्थं योजनीयं, तत्र दान-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्ती असंशयाथै विद्वत्सन्निधी स्ववि. वक्षासूचकं वाक्यमिति, 'एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः 'जीवित' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीय'ति प्राकृतशेल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्य गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः ।।९१॥ आह-तीर्थकरभाषितान्येव सूत्र, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपन्नगणधरापेक्षया प्रभूतार्थमर्थमानं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्धराशिमिति, अत आह. अत्थं भासह अरहा सुतं गंधंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुतं पवत्तह ॥१२॥ गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयते-कश्चिदाह-अर्थोऽनभिलाप्यः, तस्य अशब्दरू* शक्य. + दातुं. * अत एवाह । एतदेवाह. + तिथं. चालन०. 564551564-%25 Pataniorary on पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: सूत्र-प्रवर्तनस्य कारण-दर्शनं ~146~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy