SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०], भाष्यं [-] मुञ्चति 'ज्ञानवृष्टिं इति कारणे कार्योपचारात् शब्दवृष्टिं, किमर्थ !-भव्याश्च ते जनाश्च भव्यजनाः तेषां विबोधनं तदर्थं तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्वकथनमनर्थक, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थकरनामकर्मविपाकानुभावात् , तस्य च दधर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाब्यात् विबो धाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत् , उक्तं च वादिमुख्येन-वद्वाक्यतोऽपि केषाचिदबोध इति मेऽद्भुतम् । भानोमेरीचयः कस्य, नाम नालोकहेतवः॥१॥न चाछुतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः।।४॥ स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः ॥२॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान्, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं प्रसङ्ग्रेनेति गाथार्थः ॥ ८९॥ द्वितीयगाथाव्याख्या-ता' इति तां ज्ञानकुसुमवृष्टिं, बुद्धिमयेन बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, गणधराः प्रागुक्काः 'ग्रहीतु' आदातुं 'निरवशेषां' 8 संपूर्णा ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, अनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तै प्रधानमादौ वा वचनं प्रवचनं-द्वादशाङ्गं गणिपिटकं तदर्थ, कथमिदं भवेदितियावत्, प्रवक्तीति | १ श्रीमहिः सिद्धसेन दिवाकरपादहनिशिकायामिति प्रसिद्धि साधन...भावकत्वात् भवात. ECEN T पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~145
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy