________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८०], भाष्यं [-]
CI
नित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थकरतिरस्कारपरत्वादस्पेति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र
योज्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत्, परेषामाक्रमः पराक्रमः, है सोऽनुत्तर:-अनन्यसदृशो येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवशक्षितभगयोगाभावात् , ततश्च 'अनुत्तरपराक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्या दिसमन्वितपर-IN
मपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनाम|नादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तं च-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सह|सिद्ध चतुष्टयम् ॥१॥" इत्यादि, अकात्मवादब्यवच्छेदार्थ वा । अमितं-अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं | ज्ञानं एषामित्यमित ज्ञानिनः । आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावि-14 वाद्अमितज्ञानस्येति, उच्यते, सत्यमेतत् , किंतु केशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधानन्यवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके-" सर्व पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसज्ञवापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ॥१॥ इत्यादि", स्वसिद्धान्तप्रसिद्धच्छास्थवीतरागव्यवच्छेदार्थ वा । तथा तरन्ति स्म भवार्णवमिति तीस्तान तीर्णान् , तीत्वा च भवौघं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच निरुपमसुखभागिनः सुगतयः-सिद्धाः, तेषां
। अविकलभगवत इति. सिदैश्व० + दिक्षयो०
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~129~