________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [७७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । 'एकविधं ' एकप्रकारं, आवरणाभावात् हायस्यैकरूपत्वात् , 'केवलं' मत्यादिनिरपेक्ष 'ज्ञान' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ ७७ ॥1
इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकमोदयात् , ततश्च ध्वनेः श्रुतरूपत्वात् | तस्य च भावभुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भूम्मतिमोहोऽव्युत्पन्नबुद्धीनामित्यतस्तद्विनिवृत्यर्थमाह
केवलणाणेणत्थे गाउं जे तत्थ पण्णवणजोगे। ते भासह तित्थयरो वयजोग सुयं हवह सेसं ॥ ७८॥
व्याख्या-इह तीर्थकरः केवलज्ञानेन ' अर्थान् ' धर्मास्तिकायादीन् मूर्तामूनि अभिलाप्यानभिलाष्यान् ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्च तदभावात् , सर्वेशुद्धौ देशशुख्यभावादित्यर्थः। ये 'तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भाषते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानेव भाषते, अनन्तत्वात, आयुषः परिमितत्वात, वाचः क्रमवर्तित्वाच्च, किं तर्हि ?, योग्यानेव गृहीतृशत्तयपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिवन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात्, सच | श्रुतं भवति शेष, शेषमित्यप्रधान, एतदुक्तं भवति-श्रोतणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिवन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये वेवं पठन्ति-वयजोगसुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति 'तेषां ' श्रोतणां, भाव श्रुतकारणत्वादित्यभिप्रायः । अथवा 'चाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥ ७८ ॥
-
--
-
~109~