SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [७५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: SANSAR इदानीं मनःपर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपश्चकक्रमायातमभिधित्सुराह मणपजवनाणं पुण जणमणपरिचिन्तियत्यपायडणं । माणुसखित्तनिषई गुणपच्चइयं चरित्तवओ॥ ७६ ॥ ४ व्याख्या-मनःपर्यायज्ञानं 'प्राकृनिरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिकप्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयवाह-जायन्त इति जनाः, | तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनःपरिचिन्तितः जनमनःपरिचिन्तितश्चासावर्धश्चेति समासः,8 तं प्रकटयति प्रकाशयति जनमन:परिचिन्तितार्थप्रकटनं, मानुषक्षेत्र-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निवद्धं,न तद्वहिर्कावस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तद्गुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमशोषध्यादिऋद्धिप्राप्तस्यैवेति गाथार्थः॥७६॥ इदं द्रव्यादिभिर्निरूप्यते-तत्र द्रव्यतो मनःपर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनोभावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनःपर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शन मिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोतं चतुओं विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभार्ग 1 भादिना उनस्पस्वामिसाधर्म्यम् भदपदित्यर्थः ३ योगरूवतथा नरा एव स्युः, परं संशिपोन्दियामहणायैवं व्युत्पादनं. * पागणं. T Fhio अथ मन:पर्यवज्ञानस्य वक्तव्यता ~107~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy