________________
आगम
(४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [६७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
यवृत्तिः
आवश्यक-नापुरुषस्याबाधा पुरुषाबाधा तया पुरुषावापया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थ:-असंबद्धोऽवधिः हारिभद्री
क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानी॥४६॥ माधया चिन्त्यते-अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः, असंख्येय
विभागः१ मन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिरिति चत्वारोऽपि विकल्पाः संभवन्ति, संबद्धे तु विकल्पाभावः। तथा ' लोके' चतुर्दशरज्ज्वात्मके पञ्चास्तिकायवति, 'अलोके च ' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च संबद्धः, कथम् ?-पुरुषे संबद्धो लोके च-लोकप्रमाणावधिः, पुरुषे न लोके-देशतोऽभ्यन्तरावधिः, न पुरुषे | लोके-शून्यो भङ्गः, न लोके न पुरुषे-बाह्यावधिः, इयं भावना--लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु प्रलोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः॥६७॥ इदानी गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
गइनेरहयाईया, हिट्ठा जह थपिणया तहेव इहं । इही एसा वपिणजहत्ति तो सेसियाओऽपि ॥ १८॥ व्याख्या-तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणावि-भद्रा धयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम्
॥४६॥ इह ये मर्ति प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्य
• नेदं प्रत्यन्तरे.
~102