________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं - /गाथा-], नियुक्ति: [६५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
आवश्यक-
दृष्टीनां तत्रोपपाताभावात् , स च क्षेत्रतः असंख्येयो भवति, योजनापेक्षयेति गाधार्थः ॥ ६५ ॥ इदानी देशद्वारावयवाथै | | हारिभद्रीचिकटयिषुरिदमाह
यवृत्तिः णेरड्यदेवतित्थंकरा य ओहिस्सऽबाहिरा हुँति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥६६॥
विभागः१ ___ व्याख्या-नारकाः' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाच देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाद्या भवन्ति, इदमत्र हृदयं-अवध्युपलब्धस्य क्षेत्रस्यान्तवर्तन्ते, सर्वतोऽवभा-1 सकत्वात् , प्रदीपयत् , ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः ।। सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिक्ष्विति, सर्वत एवेत्यर्थः । आह| अवधेरबाह्या भवन्तीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यन्ति सर्वतः' इत्येतदतिरिच्यते इति, अनो-IN च्यते, नैतदेवं, अवधेरवाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, | अवधेर्विचित्रत्वादू, अतो नातिरिच्यत इति, 'शेषाः तिर्यइनरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टितोऽवधारणविधिः। शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति गाथार्थः ॥अथवा अन्यथा व्याख्यायते-मारकदेवतीर्थकरा अव- ॥ ४५ ॥ धेरबाह्या भवन्तीति, किमुक्तं भवति-नियतावधय एव भवन्ति, नियमेनपामवधिर्भवतीत्यर्थः, अतः संशयः-किं ते तेन |
*अत्रेष्टिनो + तीर्थंकरा.
~100~