________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५], ------------------------- -------------------- मल [१२२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२२]
गाथा
तलसम्पुटेन गृह्णाति गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः एक ईशानः पृष्ठतः आतपत्रं धरति द्वावीशानावुभयोः पार्श्वयोः चामरोक्षेपं कुरुतः एक ईशानः पुरतः शूलपाणिस्तिष्ठति-ऊर्ध्वस्थो भवति । सम्प्रत्यव्यग्रपाणिः | शक्रो यदकरोत्तदाह-'तए ण'मित्यादि, तत:-ईशानेन्द्रेण भगवतः करसम्पुटे ग्रहणानन्तरं स शक्रो देवेन्द्रो देवराजा
आभियोग्यान् देवान् शब्दयति, शब्दयित्वा च एषोऽपि तथैव-अच्युतेन्द्रवदभिषेकविषयकामाज्ञप्तिं ददाति तेऽप्याभि-18 योग्यास्तथैव-अच्युतेन्द्राभियोग्यदेवा इवाभिषेकवस्तूपनयन्ति, अथ शक्रः किं चकारेत्याह-तए ण'मित्यादि, ततः-18 अभिषेकसामठ्युपनयनानन्तरं स शक्रो देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य चतुर्दिशि चतुरो धबलवृषभान् विकुर्व-% न्ति श्वेतान् श्वेतत्वमेव द्रढयति-शङ्खस्य दल-चूर्ण विमलनिर्मल:-अत्यन्तनिर्मलो यो दधिधनो-दधिपिण्डो बद्धं दधी-18] त्यर्थः गोक्षीरफेनः प्रतीतः रजतनिकरोऽपि एतेषामिव प्रकाशो येषां ते तथा तान् , 'पासाईए'त्यादि प्राग्वत, तदनन्तरं% किमित्याह-'तए ण'मिति, ततस्तेषां चतुर्धवलवृषभानामष्टभ्यः शृङ्गेभ्योऽटी तोयधारा निर्गच्छन्ति. ततस्ता अष्टी तो-18 यधारा अचं विहायसि उत्पतन्ति-ऊर्य चलम्ति, उत्पत्य च एकतो मिलन्ति मिलित्वा च भगवतस्तीर्थकरस्य मूर्भिर निपतन्ति । अथ शक्रः किं कृतवानित्याह-तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा चतुरशीत्या सामानिकसहस्त्रयस्त्रिंशता त्रायस्त्रिंशकैर्यावत् सम्परिवृतस्तैः स्वाभाविकवैकुर्विककलदौर्महता तीर्थकराभिषेकेणाभिषिञ्चति इत्या| दिसूत्रोक्तोऽभिषेकविधिः शक्रस्याच्युतेन्द्रवदस्तीति लाघवमाह-एतस्यापि तथैवाभिषेको भणितव्यः, कियदन्त इत्याह
दीप अनुक्रम [२४१-२४३]
SADGAGeer
~89~