________________
आगम
(१८)
प्रत
सूत्रांक
[१२२]
+
गाथा
दीप
अनुक्रम [२४१
-२४३]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [ १२२] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री
या वृत्तिः
॥४२१॥
निर्मम निस्सङ्ग-निर्लेप निःशल्य मानमूरण- मानमर्दन गुणेषु रतं - उत्कृष्टं यच्छीलं ब्रह्मचर्यं तस्य सागर अनन्त अनन्त| ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमग्रेऽपि अप्रमेय- प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्यैः परिच्छेतुमशक्यत्वादिति अथवाऽप्रमेय भगवद्गुणानामनन्तत्वेन सङ्ख्यातुमशक्यत्वात् भव्य - मुक्तिगमनयोग्य अत्यासन्नभवसिद्धित्वात् धर्मेण - धर्मरूपेण वरेण-प्रधानेन भावचक्रत्वात् चतुरन्तेन चतुर्गत्यन्तकारिणा चक्रेण वर्त्तत इत्येवंशीलस्तस्य | सम्बोधनं हे धर्मवर चतुरन्तचक्रवर्त्तिन् ! नमोऽस्तु तुभ्यं अर्हते - जगत्पूज्याय इति कृत्वा इति संस्तुत्य वन्दते नमस्यतीत्यादि सूत्रं प्राग्वत् यच्चात्र विशेषणवर्णकस्यादौ नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु ते इत्युक्तं तन्न पुनरुक्तये प्रत्युत ला घवाय यतो जगत्रयप्रति स्रोतश्चारिणो जगत्रयपतेस्तत्तदसाधारण के क विशेषण विभावनात् समुद्भूतप्रणामपरिणामेन हरिणा | प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवर्जीनि भाविनि भूतवदुपचारादन्य| थाऽभिषेकसमये जिनानामेतादृश विशेषणानामसम्भवादिति । अथावशिष्टानामिन्द्राणां वक्तव्यं लाघवादाह - 'एवं जहा ' इत्यादि, एवमुक्तविधिना यथाऽच्युतेन्द्रस्याभिषेककृत्यं तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितव्यं शक्राभिषेकस्य सर्वतश्वरमत्वात् एवं भवनपतिव्यन्तरज्योतिष्काश्चन्द्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येकं २ | अभिषिञ्चन्ति । अथावशिष्टशक्रस्याभिषेकावसरः- 'तरण'मित्यादि, ततः - त्रिपष्टीन्द्राभिषेकानन्तरमीशानो देवेन्द्रो देवराजा पञ्चेशानान् विकुर्वति एकः ईशानः पञ्चधा भवति, एतदेव विभजति तत्र एक ईशानो भगवन्तं तीर्थकरं कर
For P&Praise City
~88~
चक्षुस्कारे
जन्ममहे
अच्युता
शीर्वादः
शेषेन्द्राभि
कथ स. १२२
॥४२१॥