SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ------------------------ -------------------------- मूलं [११४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक Eeeee [११४] गाथा: च शतपाकैः सहस्रपाकैः-शतकृत्योऽपरापरौषधिरसेन कार्षापणानां शतेन वा यत्पक्वं तच्छतपाकमेवं सहस्रपाकमपि बहु-| 1 वचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गायति तैलमभ्यंजयंतीत्यर्थः, अभ्यङ्गयित्वा च सुरभिणा गन्धवर्तकेन गन्धद्रव्याषां-उत्पलकुष्ठादीनामुर्तकेन-चूर्णपिण्डेन गन्धयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्त्तयन्ति प्रक्षिततेलापनयन कुर्वन्ति उदय॑ च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाह्वोहन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च त्रिभिरुदकैर्मजयंति-स्नपयंति, तान्येव त्रीणि दर्शयति-तद्यथे' त्यादिना, गंधोदकेन-कुंकुमादिमिश्रितेन पुष्पोदकेन-जात्यादिमिश्नितेन शुद्धोदकेन-केवलोदकेन, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृ-18 पुत्राविति शेषः, कृत्वा च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृहन्ति गृहीत्वा च यत्रैवोत्तराह| कदलीगृह यत्रैव च चतुःशालकं यत्रैव च सिंहासनं तत्रैव उपागच्छन्ति उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं |च सिंहासने निषादयन्ति निपाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमवादिषु:-क्षिप्रमेव भो 18| देवानप्रियाः! शुद्राहिमवतो वर्षधरपर्वताद् गोशीर्षचन्दनकाष्ठानि संहरत-समानयत, ततस्ते आभियोगा देवास्ताभी रुच-161 कमध्यवास्तव्याभिश्चतसृभिर्दिवमारीमहत्तरिकाभिरेवं-अनन्तरोक्तमुक्ताः-आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विन-1181 येन वचनं प्रतीच्छन्ति-अङ्गीकुर्वन्ति प्रतीष्य च क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरसानि गोशीर्षचन्दनकाष्ठानि दीप अनुक्रम [२१८-२२६] ~33~
SR No.035025
Book TitleSavruttik Aagam Sootraani 1 Part 25 Jambudwippragyapti Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages344
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy