________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः)
मूलं [ १६२२ - १६४ ] + गाथा:
वक्षस्कार [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
वक्तव्यं ७ एषामेव प्रमाणं वक्तव्यं ८ चन्द्रादीनां विमानानि कियन्तो वहन्तीति वक्तव्यं ९ एषां मध्ये के शीघ्रग| तयः के मन्दगतय इति वक्तव्यं १०, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं ११ ताराणां परस्परमन्तरं वक्तव्यं १२ अग्रमहिष्यो वक्तव्याः १३, तुटिकेन - अभ्यन्तरपर्यत्सत्कस्त्रीजनेन सह प्रभुः - भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं १४ स्थितिरायुषो वक्तव्या १५ ज्योतिष्काणामल्पबहुत्वं वक्तव्यं १६ इति । अथ प्रथमं द्वारं पिपृच्छिपुराह'अस्थि ण' मित्यादि, अस्त्येतद् भगवन् ! चन्द्रसूर्याणां देवानां 'हिद्विपि 'त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूप: तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि हीना अपि भवन्ति केचित्तुल्या अपि-सदृशा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रा| पेक्षया समाः- समश्रेणिस्थिता अपि तारारूपाः- तारा विमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवा| दिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि भवन्ति तथा चन्द्रादिविमानानां क्षेत्रापेक्षया उपरि- उपरिस्थितास्तारारूपा:- ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोsपि केचित्तुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्ठे भगवानाह - गौतम! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं, अत्रार्थे हेतुप्रश्नायाह-अथ केनार्थेन भगवन्नेवमुच्यते- 'अस्थि ण'मित्यादिना तदेव सूत्रमनुस्मरणीयं, अत्रोत्तरमाह-यथा यथा तेषां तारारूपविमानाधिष्ठातॄणां देवानां प्राग्भवे सपोनियमब्रह्मचर्याण्यु
For P&Praise Cinly
~289~