________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [७],
मूलं [ १६१] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Ja Ecum
उडुपतिः- चन्द्रमाः परिपूर्णां पूर्णमासी विमलामिति करणगाथाद्वयाक्षरार्थः, भावना खियं—- कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति तत्र षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिप्रियते, स प्रथमायां पौर्णमास्यां किल पृष्ठमित्येकेन गुण्यते, 'एकेन च गुणितं तदेव भवति ततस्तस्मादभिजितो नव मुहर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम्, तत्र च षट्षष्टेर्नव मुहूर्त्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत् तेभ्यः एको मुहत्तों गृहीत्वा द्वाषष्टिभागीकृतः ते च द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एकं रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागेकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः पट्षष्टिः शुद्धाः स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रिंशता मुहूर्त्तेः श्रवणः शुद्धः स्थिताः पश्चान्महूर्त्ताः षड्विंशतिः, तत इदमागतं. धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्त्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चष| ष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषु प्रथमा पौर्णमासी समाप्तिमियति, एवं पञ्चानां युगभाविनीनां श्राविष्धीनां पूर्णिमानां | कचित् श्रवणेन कचिद् धनिष्ठया च परिसमाप्तिर्भावनीया । तथा प्रोष्ठपदीमिति-भाद्रपदीं भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति १, भगवानाह - गौतम ! त्रीणि नक्षत्राणि योजयन्ति, तद्यथा - शतभिषक् पूर्वभद्रपदा उत्तर
For P&Pase Cly
~265~