________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७], ---------------------------------------------- ---------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [२५८]
पूर्व्या सूर्यस्य मुहूर्तगत्याद्याह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सवबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति', गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि पश्चोत्तराणि योजनशतानि पञ्चदश षष्टिभागान् योजनस्य ५३०५६५ एकैकेन मुहर्तेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिरयपरिमाणं तिम्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, ततोऽस्य प्रागुक्तयुक्तिवशात् षट्या भक्ते लब्धं | यथोक्तमत्र मण्डले मुहर्तगतिपरिमाणमिति, अत्र टिपधप्राप्ततापरिमाणमाह-तदा' सर्वबाह्यमण्डलधारचरणकाले इह
गतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहरष्टभिश्चैकत्रिंशदधिकैयोजनशतैत्रिंशता च पष्टिभागैयोजनस्य ११८18|३१३: सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमहर्चप्रमाणो, 18 दिवसस्याङ्केन यावन्मान क्षेत्र व्याप्यते तावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्तानामः षट।
मुहूर्तास्ततो यदत्र मण्डले मुहूर्त्तगतिपरिमाणं पञ्चयोजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य ५३०५१५ तत् पडिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्तगतेदृष्टिपथप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपान्त्यमण्डलदृष्टिपथप्राप्ततापरिमाणात् पञ्चाशीतिर्योजनानि नव पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः इत्येवंराशौ शोधिते इदमुपपद्यते एतच्च प्राग भावितं तथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरमकारि, इदं च
JaEartG
~137