________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४३]
गाथा:
दीर्घत्वं, मुद्रिकाभिः-साक्षराङ्गुलीयकैः पिङ्गला अङ्गल्यो यस्य स तथा, बहुव्रीहिलक्षणः कः प्रत्ययः, नानामणिमयं | 18| विमलं महाघ-बहुमूल्यं निपुणेन शिल्पिना 'ओअवित्ति परिकर्मित 'मिसिमिसेंत'त्ति दीप्यमानं विरचितं-18
निम्मितं मुश्लिष्ट-सुसन्धि विशिष्ट-अन्येभ्यो विशेषवत् लष्टं-मनोहरं संस्थितं-संस्थानं यस्य तत्, पश्चात् पूर्वपदैः कर्मधारयः, एवंविधं प्रशस्त आविर्द्ध-परिहितं वीरवलयं येन स तथा, अन्योऽपि यः(दि)कश्चिद्वीरव्रतधारी तदाऽसौ ||
मां विजित्य मोचयत्वेतद्वलयमिति स्पर्धयन् (यत् परिदधाति तद्वीरवलयमित्युच्यते, किंबहुना ? वर्णितेनेति शेषः,18 18'कप्परुक्खए चेव'त्ति अत्र चेवशब्द इवार्थे तेन कल्पवृक्षक इवालङ्कृतो विभूषितश्च, तत्रालङ्कृतो दलादिभिर्विभूषितः
फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलतो विभूषितस्तु वस्त्रादिभिरिति, नरेन्द्रः 'सकोरंट जाव'त्ति अत्र यावत्करणात् 'सकोरंटमल्लदामेणं छत्तेण धरिजमाणेण'मिति ग्राह्य, तत्र सकोरण्टानि-कोरण्टाभिधानकुसुमस्तबकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्ते शोभायं दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणीत्यर्थः,18 | तेषां दामानि-माला यत्र तत्तथा, एवं विधेन छत्रेण प्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुर्णा-अप्रतः पृष्ठतः | पार्श्वयोश्च वीज्यमानत्वाच्चतुःसङ्ख्याङ्कानां चामराणां वालवींजितमहं यस्येति, मङ्गलभूतो जयशब्दो जनेन कृत8 आलोके-दर्शने यस्य स तथा, अनेके गणनायका-मल्लादिगणमुख्याः दण्डनायका:-तन्त्रपालाः यावत्पदात् 'सरत-181 लवरमाडंबिअकोटुंबिअमंतिमहामंतिगणगदोवारिअअमञ्चचेडपीढमद्दणगरणिगमसेडिसेणावइसत्थवाह' इति द्रष्टव्यं,
दीप
अनुक्रम [५६-६०
anERATI
~34