________________
आगम
(१८)
प्रत
सूत्रांक
[७४]
दीप
अनुक्रम
[१२९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [७४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति " मूलं एवं शांतिचन्द्र विहिता वृत्तिः
द्रहनिर्गततृतीयनदीस्वरूपमाह - 'तस्स ण' मित्यादि, व्यक्तं नवरं द्वे षट्सप्तत्यधिके योजनशते पट् च एकोनविंशतिभागान् योजनस्य एतावतीं भुवं उत्तराभिमुखी - हैमवतक्षेत्राभिमुखी पर्वतेन गत्वा, अत्रोपपत्तिः - हिमवद्व्यासाद्रहव्यासेऽपनीते शेषहिमवन्यासेऽर्द्धकृते एतावत एव लाभात्, मनु गङ्गायां दक्षिणाभिमुखं गिरिगमनं पश्च योजनशतानि २३ योजनानि कलात्रिकं च समधिकमिति, अस्यास्तु षट्सप्तत्यधिके द्वे शते षट् च कलाः किमित्येतावदन्तरं १, उच्यते, गङ्गायाः गिरिमध्यवर्त्तिना पूर्वदिक्तोरणेन निर्गतायाः पञ्चशतयोजनपूर्वाभिमुखगमनानन्तरं दक्षि| णादिग्गामिन्याः स्वव्यासरहितगिरिव्यासार्द्धगामित्वं, एवं सिन्ध्या अपि पञ्चशतयोजनपश्चिमाभिमुखगमनादनु, अस्यास्तु उत्तरदितोरणेन निर्गतायाः उत्तरगामिन्या द्रहव्यासशुद्ध गिरिव्यासार्द्धगामित्वमिति भेदः । अथास्या जिन्हि - कामाह - 'रोहिअं' इत्यादि, व्यक्त, नवरं आयामे योजनंविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि - सार्द्धद्वादशयोजनानि बाहल्ये क्रोर्श, गङ्गाजिव्हिक्राया अस्था द्विगुणत्वात् । अथ कुण्डस्वरूपमाह - 'रोहिअंसा' इत्यादि, प्रायः प्रकदार्थ, परमायामविष्कम्भयोविंशत्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह - 'तस्स ण' मित्यादि, प्रकटार्थ, 'से केणद्वेणं भन्ते । एवं बुच्चइ रोहिअंसादीवे २' इत्याद्यभिलापेन ज्ञेयः सम्प्रत्यस्या येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यात्रांश्च नदीपरिवारो यत्र च संक्रमस्तथाऽऽह - 'तस्स ण' मित्यादि, तस्य - रोहितांशाप्रपातकुण्डस्य औतराहेण तोरणेन रोहितांशा महानदी प्रब्यूढा - निर्गता सती हैमवतं वर्ष इयूती २- गच्छन्ती २ चतुर्दशभिः
Fur Fraternae Cy
~244~
treseseve