________________
आगम
(१८)
प्रत
सूत्रांक
[ ७०]
दीप
अनुक्रम [१२५]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [७०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Eikennitine
निषीदति निषद्य चादर्शगृहे आत्मानं प्रेक्षमाणः २-तत्र प्रतिविम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यंस्तिष्ठति - आस्ते, अत्र च 'व्याख्यातो विशेषप्रतिपत्ति' रित्ययं सम्प्रदायो बोध्यः, तद्यथा - 'तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या | एकतमस्या, निपपातांगुलीयकम् ॥ १ ॥ तदंगुल्या गलितमप्यंगुलीयं महीपतिः । नाज्ञासीद्वहिंगो बर्हभाराद्वर्हमिवै| ककम् ॥ २ ॥ वपुः पश्यन् क्रमेणेक्षांचक्रे तां चत्रयनूर्मिकाम् । अंगुलीं गलितज्योत्स्नां दिवा शशिकलामिव ॥ ३ ॥ अहो विशोभा किमसाबंगुलीति विचिन्तयन् । ददर्श पतितं भूमावंगुलीयं नरेश्वरः ॥ ४ ॥ किमन्यान्यपि विशोभाम्यङ्गान्याभरणैर्विना । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ॥५॥ इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह- 'तए ण-' मित्यादि, ततो-वपुर्न्यस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामेन “अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥ १ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूपरभूरिव ॥ २ ॥ यत्प्रातः संस्कृतं धान्यं तन्मध्याह्ने विनश्यति । तदीयरसनिष्पन्ने, काबे का नाम सारता १ ॥२३॥ इति शरीरासारत्व भावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः - उक्तस्वरूपैर्मनः परिणामः लेश्याभिःशुक्लादिद्रव्योपहितजीवपरिणतिरूपाभिर्विशुद्धयन्तीभिः - उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपुर्वैरूप्यविषयकमीहापोहमार्गणागवेषणं कुर्वतस्तदावरणीयानां केवलज्ञानदर्शननिबन्धकानां चतुणां घातिकर्मणां क्षणसर्वथा जीवप्रदेशेभ्यः तदीयपुङ्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शनमुत्पन्नमिति,
File&in the Cy
~212~
Desenegengese