________________
आगम
(१८)
प्रत
सूत्रांक
[ ६५ ]
दीप
अनुक्रम
[१०४]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [ ६५ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Ebenist
तथा, अन्यत्सर्वं प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमेन परिभावनीयं, अथ नाव्यमालदेवस्य वशीकरणप्रयोजनमाह'तए ण'मित्यादि, ततो गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा चैवमवादीदित्यादिकं अत्र गुहाकपाटोद्घाटनाज्ञापनादिकं एकोनपञ्चाशन्मण्डला लेखनान्तं सर्वं तमिस्रागुहायामिव ज्ञेयं, अत्र यो विशेषस्तन्निरूपणार्थमाह-- 'तीसे ण' मित्यादि, तस्याः - खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ ण'मिति पदमात्रमवसेयं, उन्मनजलानिमग्नजले नाना द्वे महानद्यौ स्तः, तथैव - तमिस्रा गुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रन्यूढे सत्यौ पूर्वेण गङ्गां महानदीं समामुतः प्रविशतः, | शेषं विस्तारायामोद्वेधान्तरादिकं तथैव तमिस्रागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवतव्यतासेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं तथैव-प्राग्वद् ज्ञेयमिति, अथैतस्मिन्नवरे दक्षिणतो यजातं तदाह-'तर ण' मित्यादि, प्राग्व्याख्यातार्थं, अथोद्घाटितयोर्गुहादक्षिणद्वारकपाटयोः प्रयोजनमाह - 'तर णमित्यादि, ततःकपाटोद्घाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्गः यावत्करणात् 'अणेगरायवर सहस्साणुआयमग्गे महया | किसी हणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअपिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो दक्षिणद्वारेण निरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं ननु चक्रिणां तमिस्रया प्रवेशः खण्डप्रपातया निर्गमः किंकारणिकः १, खण्डप्रपात्तया प्रवेशस्त मिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात् उच्यते,
Fur Fate & Cy
~ 166~