________________
आगम
(१८)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम
[७८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [५४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृतिः
॥२२७॥
कारणिकपुरुषैः काकणीरकाङ्कितं तत्तादृशं भवेदित्यर्थः यच्छउदगर्भेणैव वाक्येन माहात्म्यान्तरमाह--नापि चन्द्रः तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः, अत्र इर्वाक्यालङ्कारे एवं सर्वत्र, नवाऽग्निदींपादिगतः न वा मणय स्तत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमभूष्णव इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारमत्रास्तीति अवादित्वादप्रत्ययविधानाद्वा अन्धकारवतिगिरिगुहादौ तकत्-काकणीरलं दिव्यं-प्रभावयुक्त तिमिरं नाशयति, अथ यदीदं प्रकाशयति तदा कियत् क्षेत्रं प्रकाशयतीत्याह- द्वादश योजनानि तस्य लेश्या:-प्रभा विवर्द्धन्ते, अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः १ - तिमिरनिकरप्रतिषेधिकास्त मिस्रादिगुहायाः पूर्वापरतो द्वादशयोजनविस्तारयोस्तासां प्रसरणात् 'रतिं च'ति प्रथमान्तयच्छन्दाध्याहारादर्थवशाद्विभक्तिपरिमाणाच्च यद्रवं रात्रौ चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससदृशं यथा दिवसे आलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, यस्य प्रभावेण चक्रवर्त्ती तमिस्रां गुहां अत्येति प्रविशति सैन्यसहितो द्वितीयमर्द्ध भरतमभिजेतुं उत्तरभरतं वशीकर्त्तुमित्यर्थः, न चात्रान्तरा यच्छब्दगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्रदूषणमिति वाच्यं, आर्यत्वात् तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथा आर्षे छन्दस्सु वर्णाद्याधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनात्वात् तथैव शिष्टव्यवहारात्, राजवरी- भरतः 'कागणिं' ति पदेकदेशे पदसमुदायोपचारात् काकणीरनं गृहीत्वा खात्वा तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः - भित्त्योः प्राकृतत्वाद् द्विवचने बहुवचनं, योजनान्तरितानि प्रमाणांगुल
Fur Fate &P Cy
~ 109~
३वक्षस्कारे मणिरत्नं काकिणीरलेन मण्डलालेखनं च
सू. - ५४
॥२२७॥