________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
४
या 'नीरजा' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा निष्पक्का' कलङ्कविकला कईमरहिता वा, तथा निष्कन्कटा-निष्कवचा निरावरणा छाया-दीतिर्यस्याः सा तथा, सप्रभा-स्वरूपतः प्रभावती अथवा खेन
आत्मना प्रभाति-शोभते प्रकाशते वेति स्वप्रमा, तथा समरीचिका-सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः, तथा 18 प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःमहादकारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां
पश्यतश्चक्षुषी श्रमं न गच्छत इति, तथा 'अभिरुवा' अमि-सर्वेषां द्रष्टुणां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्याः। सा, अत्यन्तकमनीया इति भावः, अत एव प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तारानयनोपायः प्रदर्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे उभ्यते, अपान्तराले उपरिष्टादधोगमनेऽयमुपाय:-जगतीशिखरादधो यावदुत्तीर्ण तस्मिन्नेकेन भक्ते सति यलब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, | तथाहि-उपरितनभागाद्योजनमेकं गव्यूताधिकमवतीर्ण ततोऽस्य राशेः एकेन भागे हुते लब्धमेकं योजनं गव्यूता
धिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानि पञ्च योजनानि गन्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं ॥ सर्वत्र भाव्यं, सम्पति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूगमने यावदूर्ख गतं तस्यैकेन भागे हते यल्लब्ध
तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं स तत्र योजनादावतिक्रान्ते विस्तारः, तद्यथा-मूलादुत्पत्य योजनमेकं गन्यूतद-8
अनुक्रम
आकार-जगति आदेः वर्णनं
~52