________________
आगम
(१८)
Dirgha
प्रत
सूत्रांक
[ ३४-३६]
दीप
अनुक्रम [४७-४९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [ ३४-३६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
Jan Ebeitin
दर्शनीयं रूपं येषां ते तथा, सङ्कटितं सङ्कुचितं बल्यो -निर्मांसत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-बीचयस्तैः परिवेष्टितानि अङ्गानि - अवयवा यत्र तदेवंविधम-शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थवि - | रनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्ते इति जरापरिणतग्रहणं, प्रविरला सान्तरालत्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन दम्तश्रेणिर्येषां ते तथा, उद्भटं विकराल घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, कचित्तु उभडघाडामुहा इति पाठः, तत्र उमदे - स्पष्टे घाटामुले-कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभि विकृतं च- बीभत्सं भीषणं भयजनकं मुखं येषां ते तथा, ददुकिटिभसिध्मानि - क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छवि:- शरीरत्वग्येषां ते तथा, अत एव चित्राङ्गाः- कर्बुरावयवशरीराः कच्छ्रः -पामा तया कसरैश्च खसरैरभिभूताव्याप्ता ये ते तथा, अत एव खरतीक्ष्णनखानां कठिनतीव्रनखानां कण्डूयितेन खर्जूकरणेन विकृता - कृतत्रणा तनुःशरीरं येषां ते तथा, टोलाकृतयः- अप्रशस्ताकाराः, कचित् टोलागइति पाठस्तत्र टोलगतयः - उष्ट्रादिसमप्रचाराः, तथा विषमाणि दीर्घ स्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि - यथास्थान| मनिविष्टानि अस्थिकानि - कीकसानि विभक्तानीव च दृश्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च भोजनविशेषरहिता ये ते तथा, 'दुर्बला' बलहीनाः
Fur Fate & Use Cy
~351~