________________
आगम
(१८)
प्रत
सूत्रांक
[२३-२४]
दीप
अनुक्रम [३६-३७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [२३-२४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विश्चरणं येषां ते तथा मनुजा इत्यादि । 'अत्थि ण' मित्यादि, अत्र गोमहिष्यजाः स्पष्टाः, एडका - उरखी, आह-'नो चेवेत्यादि न च तेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धादि तेषामुपभोग्य मितियावत् । 'अत्थि ण'मित्यादि, अत्राश्वाः हस्तिनः उष्ट्राः प्रतीताः गोणा गावः गवयोबनगवः अजैडको स्पष्टौ प्रश्नया-द्विखुरा आटव्यपशुविशेषाः मृगवराही व्यक्तौ रुरवो-मृगविशेषाः शरभा-अष्टापदाः | चमरा-अरण्यगवो यासां पुच्छकेशाश्चामरतया भवन्ति शवरा - येषामनेकशाखे शृङ्गे भवतः कुरङ्गगोकर्णौ मृगभेदी शृङ्गवर्णादिविशेषाश्च सामर्थ्यगम्याः, अत्रोत्तरम् - हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषां प्रथमसमाभाविनां मनुष्याणां | यथासम्भवमारोहणादिकार्येषूपयुज्यन्ते । अथ नाखरप्रश्नसूत्र माह-'अत्थि ण' मित्यादि, अत्र सिंहाः केसरिणः व्याघ्राःप्रतीताः वृका - ईहामृगाः द्वीपिन:- चित्रकाः रुक्षा -अच्छभल्लाः तरक्षषो मृगादनाः शृगाला व्यक्ताः बिडाला - मार्जाराः | शुनकाः- श्वानः कोकन्तिका लोमटका ये रात्री को को इत्येवं रवन्ति कोलशुनका - महाशूकराः, अत्रोत्तरम् - सन्ति, परं नैव तेषां मनुजानां आवाधां वा-ईपद्वाधां व्यावाधां वा-विशेषेणावाधां छविच्छेदं वा चर्मकर्त्तनं उत्पादयन्ति यतः | प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ताः। 'अत्थि ण' मित्यादि, अत्र शालयः - कलमादिविशेषाः श्रीहयः - सामान्यतः गोधूमयवी | प्रतीती यवयवा-यवविशेषाः 'कल'सि कलायास्त्रिपुटाख्या वृत्तचणका वा मसूरा - मालवादिदेशप्रसिद्धा धान्यविशेषा मुद्गमापतिलाः कुलत्था:- चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-बलाः 'आलिसंदग' ति चपलकाः अलसी - धान्यं
Fate & C
~259~