SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२३-२४] दीप अनुक्रम [३६-३७] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२३-२४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः तन्त्र्यमुक्तं, ग्रामनगरादिव्यवस्थायां तु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्, जीवाभिगमे तु 'अहेच्छिअकामगामिणो' इत्यस्य स्थाने 'जं नेच्छिअकामंगामिणो' इति पाठः, तत्रायमर्थः - यद् - यस्मान्नेप्सितकामगामिनः न इच्छितं - इच्छाविषयीकृतं नेच्छितं, नायं नञ् किन्तु नशब्द इत्यनादेशाभावः, यथा 'नैके द्वेषस्य पर्याया' इत्यत्र, नेच्छितं - इच्छाया अविषयीकृतं कार्म - स्वेच्छया गच्छन्तीत्येवंशीला नेच्छित कामगामिनस्ते मनुजा इति, यद्यपि गृहसूत्रेणैवार्थापत्त्या - ग्रामाद्यभावः सूचितस्तथाप्य व्युत्पन्नविनेयजनव्युत्पत्त्यर्थमेतत्सूत्रोपन्यासः, 'अत्थि ण' मित्यादि, अत्रासि:- खङ्गः यमुपजीव्य जनः सुखबृसिको भवति यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते, एवमग्रेतन विशेषणेष्वपि यथायोगं ज्ञेयं, मषी यदुपजीवनेन लेखककला, कृषिः कर्षणं वणिक्पण्याजीवः पणितं-क्रयाणकं वाणिज्यं सत्यानृतमर्पणग्रहणादिषु न्यूनाधिकाद्यर्पणमित्यर्थः १, नायमर्थः समर्थः, यतस्ते व्यपगतानि असिमषीकृपिवणिक्पणितवाणिज्यानि येभ्यस्ते । तथा मनुजाः प्रज्ञता इति । 'अत्थि ण' मित्यादि, हिरण्यं रूप्यमघटितसुवर्णं वा सुवर्ण-घटितं कांस्यं प्रतीतं दृष्यंवखजातिः मणि:- चन्द्रकान्तादिः मौक्तिकं व्यक्तं शङ्खो -दक्षिणावर्त्तादिः शिला- गन्धपेषणादिका प्रवाल- प्रतीतं | रक्तरलानि-पद्मरागादीनि स्वापतेयं - रजत सुवर्णादिद्रव्यं, ननु यदि हिरण्यं रूप्यं तदा रूप्यखानौ तत्सम्भवः यदि चाघटितसुवणं तदा सुवर्णखानौ परं घटितं सुवर्णं तथा ताम्रत्रपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवं दूष्यं तत्र कथं सम्भवेयुः १, शिल्पिप्रयोगजन्यत्वात् तेषां न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि सम्भवतीति वाच्यं, Fur Fate &P Cy ~ 255 ~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy